Uncategorized

Nutrition and the Mind / पोषणाहारं एवं मनः

मम विषयः अस्ति पोषणम् अथवा मनः। कस्य पोषणम्? शरीरस्य पोषणम् एव खलु। शरीरम् इत्युक्ते यत् वयं दृष्टुं शक्नुमः तदेव न। तत् तु स्थूलशरीरम् अस्ति। अस्माकम् सूक्ष्मशरीरम् अपि अस्ति – प्राणमयशरीरम् अथवा मनोमयशरीरम्। अहं न केवलं स्थूलशरीरपोषणविषये वदामि परञ्च सूक्ष्मशरीरपोषणविषये अपि वक्तुम् इच्छामि।

यदि कोऽपि मां पृच्छति, मम जीवनभागी कः? अहं किम् वदामि? मातापितरौ वा, मम पतिः वा? पुत्राः वा? मित्राणि वा? न एतेषु कोऽपि न। वस्तुतः अस्माकम् सहजभागी अस्माकम् शरीरम् अस्ति। एतत् शरीरम् अस्माकम् जन्मतः मरणपर्यन्तम् अस्माकम् भागस्वामी भविष्यति। शरीरमाद्यं खलु धर्म साधनम्? यदि शरीरम् अस्ति वयं कर्माणि कर्तुं शक्नुमः। अतः अस्माकम् दायित्वम् अस्ति यत् एतस्य शरीरस्य पोषणम् सम्यक् कुर्याम।

एकवारं मम पुत्रं  उद्दिश्य एवम् उक्तवती – पुत्र! भवान् भवतः शरीरं भवतः प्रिययानम् इव लोचताम्। किम् भवान् भवतः याने यत् किमपि  द्रव्यं स्थापयति? न, इन्धनम् एव उपयुज्यते खलु? अपि च सम्यक् इन्धनम् यदस्ति तदेव चिनोति? यानस्य संरक्षणं यदा भवान् अकरिष्यत् तदा यानम्  भवन्तं अपि सम्यक् सेवते । अस्माकम् शरीरं यानम् इव वर्तते । यदि वयं एतस्य शरीरस्य सम्यक्तया पोषणं कुर्मः तर्हि तदस्मान्  संरक्षति। वयं नीरोगिनः भविष्यामः। 

कथम् अस्य  शरीरस्य पोषणम् भवेत्? शरीरस्य पोषणम् त्रिधा  भवेत्  – आहारेण, श्वासेन अथवा चिन्तनेन।

वयं सर्वे जानीमः यत् आहारं जीवनस्य कृते अत्यन्तावश्कम् अस्ति। अतः सन्तुलिताहार: अस्माभिः स्वीकरणीयः । सन्तुलिताहारः कः ? अहं वदामि। भोजनस्य चत्वारः भागाः यदि कुर्मः तदा एकस्मिन् भागे ओदनम् उत रोटिकाः भवेयुः। द्वितीये भागे द्विदलेन निर्मितः सूपः स्थापनीयम्, तृतीये भागे पक्वशाकानि  चतुर्थे भागे अपक्वशाकानि च भवेयुः। यदि वयंरीत्या एवं खादामः चेत् सन्तुलिताहारं प्राप्स्यामः। फलानि भोजनानां मध्ये खादितुं शक्नुमः।

श्रेष्ठाहारः  अस्माकम् मस्तिष्कस्य कृते अपि समीचीनः भवति। निपुणतया कार्यं कर्तुं तं प्रेरयति इति हार्वर्ड मेडिकल पब्लिशिङ्ग, इस्यस्मिन्  लेखे मया पठितम्। “मानसिकम् आरोग्यम् अपि पौष्टिकाहारेण सम्यक् भविष्यति” इत्यत्र  लिखितम् अस्ति। अस्माकं देशे तु पूर्वमेव उक्तम् अस्ति – यादृशं भक्षयेदन्नं बुद्धिर्भवति तादृशी।

अतः सन्तुलिताहारेण वयं अस्माकम् शरीरस्य सम्यक् संरक्षणम् कर्तुं शक्नुमः। मानसिकम् आरोग्यम् अपि पालयितुम् शक्नुमः। परञ्च मानसिकारोग्यस्य  कृते इतोऽपि परिश्रमम् कुर्याम। अस्माकम् चिन्तनम्, वचनम् च शरीरं प्रभावं कुरुतः । यत् किमपि  चिन्तयामः, यद्किमपि वदामः तत् सर्वं अस्माकम् सूक्ष्मशरीरपोषणम् करोति। अतः अस्माकम् चिन्तनम् वचनानि च सात्विकानि  भवेयुः। मनसि अप्रियविचाराः  न भवेयुः, मुखात् अशुभवचनम् कदापि न मुञ्चेरन् (मुचिँ कल्कने कथने च)।

अनन्तरं प्राणमयशरीरस्य  कथम् संरक्षणं कुर्मः? अस्माकम् श्वासनियन्त्रणेन वयं प्राणमयशरीरं रक्षितुं शक्नुमः। श्वासः अस्ति चेत् जीवनम् अस्ति। श्वासः नास्ति चेत् जीवनम् नास्ति। परन्तु वयं श्वासस्य प्रामुख्यं सर्वदा विस्मरामः। दीर्घश्वासम् स्वीकुर्म चेत् आयुः दीर्घः भविष्यति। कूर्मः निमेषाभ्यन्तरे केवलम् चतुर्वारं श्वासं स्वीकरोति। श्वानः, तस्मिन् समये पञ्चदश वा त्रिशत्  श्रासान्  स्वीकरोति। भवन्तः जानन्ति कूर्मस्य आयुः किम् भवति अथवा श्वानस्य आयुः  किम् भवति। अतः वयम् एव अधुना वृक्षितुम् (वृक्षँ वरणे – choose) शक्नुमः कथम् अस्माकम् श्वासः भवेत्। प्राणायाम् नितरां यदि कुर्मः चेत् प्राणमयशरीरस्य पोषणम् सम्यक् भविष्यति।

बेङ्गुलूरु नगरे यस्-व्यासा इति विश्वविध्यालये अपि ते शोधकार्यं कृतवन्तः। यम्यसआरटी इति नाम्ना एका प्रक्रिया ते कृतवन्तः। विंशतिनिमेषाः एव एषा प्रक्रिया – मन्त्रस्य उच्चारणम्  श्वासस्य नियन्त्रणम् एतस्यां  प्रक्रियायां भवति। बहवः रूग्णाः  एतां  प्रक्रियां उपयुज्य नीरोगिणः  अभवन्।

अमेरिका देशे लुयीस् हे इति नाम्ना एका महिला आसीत् । केन्सर्रोगात् पीडिता आसीत्। चिकित्सकः शस्त्रोपचारः (ओपरेश्ण्) करणीयः इति उक्तवान् । सा चिकित्सकं त्रिमासाः अवधि आपृच्छत् । ते उक्तवन्तः विलम्बः भविष्यति। परन्तु सा निश्चयं कृतवती यत् तस्याः स्वास्थं सा एव संरक्षितुं प्रयत्नम् करोति इति। आहारे परिवर्तनम् कृतवती, जीवनविधाने परिवर्तनम् कृतवती। ध्यानम्, प्राणायामम्, चित्तशुद्धिम्, देहशुद्धिम् सर्वं कृतवती। त्रिमासानन्तरं यदा सा परीक्षायाः कृते चिकित्सालयं गतवती तदा चिकित्सकाः आश्चर्यं अनुभूतवन्तः किमर्थम् इत्युक्ते केन्सररोगं गतम् आसीत्।

सा वदति स्म रोगस्य  जन्म प्रथमम् मनसि भविष्यति – अस्माकम् विचाराद्  एव। अनन्तरम् शरीरे प्रकटीभवति। यदि विचाराणां वय़ं परिशीलनं कृत्वा तेषां  नियन्त्रणं कुर्मः अथवा परिवर्तनम् कुर्मः तर्हि रोगात् मुक्तिं प्राप्स्यामः इति।

अस्माकम् आरोग्यम् अस्माकम् अधीने एव भवेत्। अन्यस्मै अस्य  दायित्वम् न दास्यामः। स्वयं एव एतत् दायित्वं स्वीकृत्य आहार-व्यवहारे सतर्कतां दर्शयामः। सूक्ष्मस्य अथवा स्थूलस्य शरीरस्य पोषणम् सम्यक्तया कुर्मः।

अन्ते छान्दोग्योपनिषत्सु एकां उक्तिं श्रावयित्वा विरमामि

आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा स्मृतिः। CU – 7.26.2

The purer the food, the better the mettle; the purer the mettle, the better the memory.

Standard